तेज़ एक्सप्रेस न्यूज़ – बी के आचार्या
अष्टभैरव उपासना विविध कार्यानुसार महादेव से जो शक्तियां प्रकट हुई उन्हें भैरव कहते है । ऐसे तो भैरवजी के अनेक स्वरूप है पर अष्ट भैरव प्रधान स्वरूप है । उग्र कार्य हेतुसार प्रकट हुवे ये सभी स्वरूप उग्र ओर प्रचंड शक्ति स्तोत्र है । इसलिए उपासक को उनकी उपसनामे पूर्ण सावधानी रखनी होती है । गुरु परंपरा पूजा , मंत्र , स्तोत्र करना और पूर्ण पवित्रता के साथ ये पूजन किया जाता है । उपासना दरम्यान ही साधक को अनेक अनुभूतिया होने लगती है । योग्य मार्गदर्शक सद्गुरु का सानिध्य अवश्यक है । सवा वर्ष ( 15 मास ) अनुष्ठान करना होता है । घरमे किसी एकांत स्थानमे एक चौरंगी पर बप्पा की मूर्ति , फोटो या श्रीफल में स्थापन करे । गुरु , गणपति ओर कुलदेवी सहित महादेव का प्रथम पूजन करे फिर भैरवजी का पंचोपचार पूजन करके नैवेद्य प्रसाद और आरती करें । पूजन के बाद भैरवाष्टकम के नियमानुसार पाठ ओर मंत्र जाप करे ।
श्रीमहाभैरवाष्टकम्
श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः
विनियोग ;-
अस्य श्रीबटुकभैरवाष्टकस्तोत्रमन्त्रस्य ईश्वर ऋषिः । गायत्री छन्दः । बटुकभैरवो देवताः । ह्रीं बीजम् । बटुकायेतिशक्तिः । प्रणवः कीलकम् । धर्मार्म्मार्थकाममोक्षार्थे पाठे विनियोगः ॥
करन्यास;-
कं अङ्गुष्टाभ्यां नमः । हं तर्जनीभ्यां स्वाहा । खं मध्यमाभ्यां वषट् । सं अनामिकाभ्यां हूं ।गं कनिष्टिकाभ्यां वौषट् । क्षं करतलकरपृष्टाभ्यां फट् ॥
हृदयादिन्यास;-
कं हृदयाय नमः । हं शिरसे स्वाहा । खं शिखायै वषट् । सं कवचाय हूं । गं नेत्रत्रयाय वौषट् । क्षं अस्त्राय फट् ॥
अथाङ्ग न्यासः
।क्षं नमः हृदि । कं नमः नासिकयोः । हं नमः ललाटे । खं नमः मुखे । सं नमः जिह्वायाम् । रं नमः कण्ठे ।मं नमः स्तनयोः । नमः नमः सर्वाङ्गेषु ।
तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनोपम ।
भैरवाय नमस्तुभ्यमनु ज्ञान्दातुमर्हसि ॥ १॥
डॉ0 विजय शंकर मिश्र:
ध्यानम् ;-
करकलितकपालः कुण्डलीदण्डपाणि स्तरुणतिमिरनीलोव्यालयज्ञोपवीती ।
क्रतुसमयसपर्या विघ्नविच्छेदहेतु- र्जयतिबटुकनाथः सिद्धिदः साधकानाम् ॥ २॥
पूर्वे आसिताङ्गभैरवाय नमः पूर्वदिशि मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
आग्नेये रुरुभैरवाय नमः आग्नेये मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
दक्षिणे चण्डभैरवाय नमः दक्षिणे मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
नैऋत्ये क्रोधभैरवाय नमः नैऋत्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
प्रतिच्यां उन्मत्तभैरवाय नमः प्रतिच्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
वायव्ये कपालभैरवाय नमः वायव्ये मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
उदिच्यां भीषण भैरवाय नमःउदिच्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्षआवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
ईशान्यां संहारभैरवाय नमः ईशाने मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा ।
डॉ0 विजय शंकर मिश्र:
मंत्र ;-
॥ नमो भगवते भैरवाय नमः क्लीं क्लीं क्लीं ॥
इति मन्त्रमष्टोत्तर शतं जप्त्वा चतुर्विध पुरुषार्थसिद्धये महासिद्धिकरभैरवाष्टकस्तोत्र पाठे विनियोगः ॥
यं यं यं यक्षरूपं दिशिचकृतपदं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुट्जटा भालदेशेऽर्धचन्द्रम् ।
दं दं दं दीर्घकायं विकृतनख मुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ १॥
रं रं रं रक्तवर्णं कटिनतनुमयं तीक्ष्णदंष्ट्रं च भीमं घं घं घं घोरघोषं घ घ घनघटितं घुर्घुरा घोरनादम् ।कं कं कं कालपाशं ध्रिकि ध्रिकि चकितं कालमेघावभासं तं तं तं दिव्यदेहं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ २॥
लं लं लं लम्बदन्तं ल ल ल लितल ल्लोलजिह्वा करालं धूं धूं धूं धूम्रवर्णं स्फुट विकृतनखमुखं भास्वरं भीमरूपम् ।
रुं रुं रुं रूण्डमालं रुधिरमयतनुं ताम्रनेत्रं सुभीमं नं नं नं नग्नरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ३॥
वं वं वं वायुवेगं ग्रहगणनमितं ब्रह्मरुद्रैस्सुसेव्यं खं खं खं खड्गहस्तं त्रिभुवननिलयं घोररूपं महोग्रम् ।चं चं चं व्यालहस्तं चालित चल चला चालितं भूतचक्रं मं मं मं मातृरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ४॥
शं शं शं शङ्खहस्तं शशिशकलयरं सर्पयज्ञोपवीतं मं मं मं मन्त्रवर्णं सकलजननुतं मन्त्र सूक्ष्मं सुनित्यम् ।भं भं भं भूतनाथं किलिकिलिकिलितं गेहगेहेरटन्तं अं अं अं मुख्यदेवं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ५॥
खं खं खं खड्गभेदं विषममृतमयं कालकालं सुकालं क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्तप्तमानम् ।हं हं हं कारनादं प्रकटितदपातं गर्जितां भोपिभूमिं बं बं बं बाललीलं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ६॥
सं सं सं सिद्धियोगं सकलगुणमयं रौद्ररूपं सुरौद्रं पं पं पं पद्मनाभं हरिहरनुतं चन्द्रसूर्याग्नि नेत्रम् ।ऐं ऐं ऐं ऐश्वर्यरूपं सततभयहरं सर्वदेवस्वरूपं रौं रौं रौं रौद्रनादं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ७॥
हं हं हं हंसहास्यं कलितकरतलेकालदण्डं करालं थं थं थं स्थैर्यरूपं शिरकपिलजटं मुक्तिदं दीर्घहास्यम् ।टं टं टंकारभीमं त्रिदशवरनुतं लटलटं कामिनां दर्पहारं भूं भूं भूं भूतनाथं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ८॥
भैरवस्याष्टकं स्तोत्रं पवित्रं पापनाशनम् । महाभयहरं दिव्यं सिद्धिदं रोगनाशनम् ॥
। इति श्रीरुद्रयामलेतन्त्रे महाभैरवाष्टकं सम्पूर्णम् ।





